(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
6.112. अध्यायः 112
Mahabharata - Bhishma Parva - Chapter Topics
द्रोणेनाश्वत्थामानंप्रति दुर्निमित्तप्रदर्शपूर्वकं युद्धानुशासनम् ॥ 1 ॥


Mahabharata - Bhishma Parva - Chapter Text

सञ्जय उवाच। 6-112-0x(4227)(43947)
अथ वीरो महेष्वासो मत्तवारणविक्रमः।
समादाय महच्चापं मत्तवारणवारणम् ॥ 6-112-1(43948)
विधुन्वानो नरश्रेष्ठो द्रावयाणो वरूथिनीम् ।
पृतनां पाण्डवेयानां गाहमानो महाबलः ॥ 6-112-2(43949)
निमित्तानि निमित्तज्ञः सर्वतो वीक्ष्य वीर्यवान् ।
प्रतपन्तमनीकानि द्रोणः पुत्रमभाषत ॥ 6-112-3(43950)
द्रोण उवाच। 6-112-4x(4228)
अयं हि दिवसस्तात यत्र पार्थो महाबलः।
जिघांसुः समरे भीष्मं परं यत्नं करिष्यति ॥ 6-112-4(43951)
उत्पतन्ति हि मे बाणा धनुः प्रस्फुरतीव च ।
योगमस्त्राणि नेच्छन्ति क्रूरं मे वर्तते मनः ॥ 6-112-5(43952)
दिक्ष्वशान्तानि घोराणि व्याहरन्ति मृगद्विजाः ।
नीचैर्गृध्रा निलीयन्ते भारतानां चमूं प्रति ॥ 6-112-6(43953)
नष्टप्रभ इवादित्यः सर्वतो लोहिता दिशः ।
रसते व्यथते भूमिः कम्पतीव च सर्वशः ॥ 6-112-7(43954)
कङ्कगृध्रा बलाकाश्च व्याहरन्ति मुहुर्मुहुः ।
शिवाश्चैवाशिवा घोरा वेदयन्त्यो महद्भयम् ॥ 6-112-8(43955)
पपात महती चोल्का मध्येनादित्यमण्डलात्।
सकबन्धश्च परिघो भानुमावृत्य तिष्ठति ॥ 6-112-9(43956)
परिवेषस्तथा घोरश्चन्द्रभास्करयोरभूत्।
वेदयानो भयं घोरं राज्ञां देहावकर्तनम् ॥ 6-112-10(43957)
देवतायतनस्थाश्च कौरवेन्द्रस्य देवताः ।
कम्पन्ते च हसन्ते च नृत्यन्ति च रुदन्ति च ॥ 6-112-11(43958)
अपसव्यं ग्रहाश्चक्रुरलक्ष्माणं दिवाकरम् ।
अवाक्शिराश्च भगवानुपातिष्ठत चन्द्रकमाः ॥ 6-112-12(43959)
वपूंषि च नरेन्द्राणां विगताभानि लक्षये ।
धार्तराष्ट्रस्य सैन्येषु न च भ्राजन्ति दंशिताःक ॥ 6-112-13(43960)
सेनयोरुभयोश्चापि समन्ताच्छ्रूयते महान्।
पाञ्चजन्यस्य निर्घोषो गाण्डीवस्य च निःस्वनः ॥ 6-112-14(43961)
ध्रुवमास्थाय बीभत्सुरुत्तमास्त्राणि संयुगे।
अपास्यान्यान्रणे योधानभ्येष्यति पितामहम् ॥ 6-112-15(43962)
हृष्यन्ति रोमकूपाणि सीदतीव च मे मनः ।
चिन्तयित्वा महाबाहो भीष्मार्जुनसमागमम् ॥ 6-112-16(43963)
तं चेह निकृतिप्रज्ञं पाञ्चाल्यं पापचेतसम् ।
पुरस्कृत्य रणे पार्थो भीष्मस्यायोधनं गतः॥ 6-112-17(43964)
अब्रवीच्च पुरा भीष्मो नाहं हन्यां शिखण्डिनम् ।
स्त्री ह्येषा विहिता धात्रा दैवाच्च स पुनः पुमान् ॥ 6-112-18(43965)
असंकल्पध्वजश्चैव याज्ञसेनिर्महाबलः ।
न चामङ्गलिके तस्मिन्प्रहरेदापगासुतः ॥ 6-112-19(43966)
एतद्विचिन्तयानस्य प्रज्ञा सीदति मे भृशम् ।
अभ्युद्यतो रणे पार्थः कुरुवृद्धमुपाद्रवत् ॥ 6-112-20(43967)
युधिष्ठिरस्य च क्रोधो भीष्मश्चार्जुनसंगतः ।
मम चास्त्रसमारम्भः प्रजानामशिवं ध्रुवम् ॥ 6-112-21(43968)
मनस्वी बलवाञ्शूरः कृतास्त्रोऽलघुविक्रमः ।
दूरपाती दृढेषुश्च निमित्तज्ञश्च पाण्डवः ॥ 6-112-22(43969)
अजेयः समरे चापि देवैरपि सवासवैः ।
बलवान्बुद्धिमांश्चैव जितक्लेशो युधां वरः ॥ 6-112-23(43970)
विजयी च रणे नित्यं भैरवास्त्रश्च पाण्डवः । 6-112-24b`अभ्युद्यतं रणे दृष्ट्वा भैरवास्त्रं च पाण्डवम् ।'
तस्य मार्गं परिहरन्द्रुतं गच्छ यतव्रत ॥ 6-112-24(43971)
पश्याद्यैतन्महाघोरे संयुगे वैशसं महत्।
हेमचित्राणि शूरणां महान्ति च शुभानि च ॥ 6-112-25(43972)
कवचान्यवदीर्यन्ते शरैः सन्नतपर्वभिः ।
छिद्यन्ते च ध्वजाग्राणि तोमराश्च धनूंषि च ॥ 6-112-26(43973)
प्रासाश्च विमलास्तीक्ष्णाः शक्त्यश्च कनकोज्ज्वलाः ।
वैजयन्त्यश्च नागानां संक्रुद्धेन किरीटिना ॥ 6-112-27(43974)
नायं संरक्षितुं कालः प्राणान्पुत्रोपजीविभिः ।
याहि स्वर्गं पुरस्कृत्य यशसे विजयाय च ॥ 6-112-28(43975)
रथनागहयावर्तां महाघोरां सुदुर्गमाम् ।
रथेन संग्रामनदीं तरत्येष कपिध्वजः ॥ 6-112-29(43976)
ब्रह्मण्यता दमो दानं तपश्च चरितं महत्।
इहैव दृश्यते पार्थे भ्राता यस्य धनञ्जयः ॥ 6-112-30(43977)
भीमसेनश्च बलवान्माद्रीपुत्रौ च पाण्डवौ ।
वासुदेवश्च वार्ष्णेयो यस्य नाथो व्यवस्थितः ॥ 6-112-31(43978)
तस्यैष मन्युप्रभवो धार्तराष्ट्रस्य दुर्मतेः ।
तपोभावितदेहस्य कोपो दहति वाहिनीम् ॥ 6-112-32(43979)
एष संदृश्यते पार्थो वासुदेवव्यपाश्रयः ।
दारयन्सर्वसैन्यानि धार्तराष्ट्राणि सर्वशः ॥ 6-112-33(43980)
एतदालोक्यते सैन्यं क्षोभ्यमाणं किरीटिना ।
महोर्मिनद्धं सुमहत्तिमिनेव महाजलम् ॥ 6-112-34(43981)
हाहाकिलकिलाशब्दाः श्रूयन्ते च चमूमुखे ।
याहि पाञ्चालदायादमहं यास्ये युधिष्ठिरम् ॥ 6-112-35(43982)
दुर्गमं ह्यन्तरं राज्ञो व्यूहस्यामिततेजसः ।
समुद्रकुक्षिप्रतिमं सर्वतोऽतिरथैः स्थितैः ॥ 6-112-36(43983)
सात्यकिश्चाभिमन्युश्च धृष्टद्युम्नवृकोदरौ ।
पर्यरक्षन्त राजानं यमौ च मनुजेश्वरम् ॥ 6-112-37(43984)
उपेन्द्रसदृशश्यामो महाशाल इवोद्गतः ।
एष गच्छत्यनीकाग्रे द्वितीय इव फल्गुनः ॥ 6-112-38(43985)
उत्तमास्त्राणि चाधत्स्व गृहीत्वा च महद्धनुः ।
पार्षतं याहि राजानं युध्यस्व च वृकोदरम् ॥ 6-112-39(43986)
को हि नेच्छेत्प्रियं पुत्रं जीवन्तं शाश्वतीः समाः ।
क्षत्रधर्मं तु संप्रेक्ष्य ततस्त्वां नियुनज्म्यहम् ॥ 6-112-40(43987)
एष चातिरणे भीष्मो दहते वै महाचमूम् ।
युद्धेषु सदृशस्तात यमस्य वरुणस्य च ॥ 6-112-41(43988)
सञ्जय उवाच। 6-112-42x(4229)
पुत्रं समनुशास्यैवं भारद्वाजः प्रतापवान्।
महारणे महाराज धर्मराजमयोधयत् ॥ ॥ 6-112-42(43989)

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे द्वादशाधिकशततमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-112-6 घोराणि भयंकराणि । अशान्तानि अनुपरतानि॥ 6-112-7 रसते शब्दायते। व्यथते बिभेतीव कम्पत इव च ॥ 6-112-12 अलक्ष्माणं प्रचण्डलक्षणलक्षितम् । अवाक्शिरा अधोमुखकोटिद्वयः ॥ 6-112-15 आस्थाय आलम्ब्य ॥ 6-112-21 अस्त्रसमारम्भः उद्यममात्रं नतु पूर्ववदस्त्राणामुपस्थितिः ॥ 6-112-28 हे पुत्र उपजीविभिरनुगतैः ॥ 6-112-30 पार्थए युधिष्ठिरे ॥ 6-112-32 तस्य धर्मस्य। मन्युर्दैन्यम्। भारतीमिति पाठे सेनामिति शेषः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.